Showing posts with label संस्कृत रचना. Show all posts
Showing posts with label संस्कृत रचना. Show all posts

10/18/13

गंगा स्तोत्र - आद्य शंकराचार्य

आदी शंकराचार्यांच्या रचना केवळ अर्थपूर्णच नव्हे तर गेय ही असतात. सुमधुर आणि रसाळ संस्कृत मधे लिहिलेल्या या रचनांपैकी मी माझ्या आवडत्या काही रचना वाचकांसमोर ठेवतो आहे.

गंगा स्तोत्र
        - आद्य शंकराचार्य 

देवि! सुरेश्वरि! भगवति! गङ्गे त्रिभुवनतारिणि तरलतरङ्गे ।
शङ्करमौलिविहारिणि विमले मम मतिरास्तां तव पदकमले ॥ 1 ॥
भागीरथिसुखदायिनि मातस्तव जलमहिमा निगमे ख्यातः ।
नाहं जाने तव महिमानं पाहि कृपामयि मामज्ञानम् ॥ 2 ॥
हरिपदपाद्यतरङ्गिणि गङ्गे हिमविधुमुक्ताधवलतरङ्गे ।
दूरीकुरु मम दुष्कृतिभारं कुरु कृपया भवसागरपारम् ॥ 3 ॥
तव जलममलं येन निपीतं परमपदं खलु तेन गृहीतम् ।
मातर्गङ्गे त्वयि यो भक्तः किल तं द्रष्टुं न यमः शक्तः ॥ 4 ॥
पतितोद्धारिणि जाह्नवि गङ्गे खण्डित गिरिवरमण्डित भङ्गे ।
भीष्मजननि हे मुनिवरकन्ये पतितनिवारिणि त्रिभुवन धन्ये ॥ 5 ॥
कल्पलतामिव फलदां लोके प्रणमति यस्त्वां न पतति शोके ।
पारावारविहारिणि गङ्गे विमुखयुवति कृततरलापाङ्गे ॥ 6 ॥
तव चेन्मातः स्रोतः स्नातः पुनरपि जठरे सोपि न जातः ।
नरकनिवारिणि जाह्नवि गङ्गे कलुषविनाशिनि महिमोत्तुङ्गे ॥ 7 ॥
पुनरसदङ्गे पुण्यतरङ्गे जय जय जाह्नवि करुणापाङ्गे ।
इन्द्रमुकुटमणिराजितचरणे सुखदे शुभदे भृत्यशरण्ये ॥ 8 ॥
रोगं शोकं तापं पापं हर मे भगवति कुमतिकलापम् ।
त्रिभुवनसारे वसुधाहारे त्वमसि गतिर्मम खलु संसारे ॥ 9 ॥
अलकानन्दे परमानन्दे कुरु करुणामयि कातरवन्द्ये ।
तव तटनिकटे यस्य निवासः खलु वैकुण्ठे तस्य निवासः ॥ 10 ॥
वरमिह नीरे कमठो मीनः किं वा तीरे शरटः क्षीणः ।
अथवाश्वपचो मलिनो दीनस्तव न हि दूरे नृपतिकुलीनः ॥ 11 ॥
भो भुवनेश्वरि पुण्ये धन्ये देवि द्रवमयि मुनिवरकन्ये ।
गङ्गास्तवमिमममलं नित्यं पठति नरो यः स जयति सत्यम् ॥ 12 ॥
येषां हृदये गङ्गा भक्तिस्तेषां भवति सदा सुखमुक्तिः ।
मधुराकन्ता पञ्झटिकाभिः परमानन्दकलितललिताभिः ॥ 13 ॥
गङ्गास्तोत्रमिदं भवसारं वांछितफलदं विमलं सारम् ।
शङ्करसेवक शङ्कर रचितं पठति सुखीः तव इति च समाप्तः ॥ 14 ॥


1/17/09

॥जागृहि जागृहि॥

आशया बध्दते लोकः कर्मणा परिबध्द्यते।
आयुक्षयं न जानाति तस्मात् जागृहि जागृहि॥१॥

जन्मदु:खं जरादु:खं जायादु:खं पुनः पुनः ।
अंतकाले महादु:खं तस्मात् जागृहि जागृहि॥२॥

काम क्रोधौ लोभ मोहौ देहे तिष्ठन्ति तस्करा:।
ज्ञानरत्नापहाराय तस्मात् जागृहि जागृहि ॥३॥

ऐश्वर्यं स्वप्न संकाशं यौवनं कुसुमोपमम्।
क्षणिकं जलमायुष्च तस्मात् जागृहि जागृहि ॥४॥

12/3/07

॥ निर्वाण-षटकम् ॥

मनोबुध्यहंकार चित्तानि नाहं न च श्रोंत्रजिह्ने न च घ्राणनेत्रे।
न च व्योम भूमिर्नतेजो न वायु: चिदानंदरुपः शिवोहम् शिवोहम् ॥१॥

न च प्राणसंज्ञो न वै पंचवायु: न वा सप्तधातु: न वा पंचकोशः।
न वाक्पाणिपादं न चोपस्थपायु चिदानंदरुपः शिवोहम् शिवोहम् ॥२॥

न मे द्वेषरागौ न मे लोभमोहौ मदो नैव मे नैव मात्सर्यभाव: ।
न धर्मो न चार्थो न कामो न मोक्ष: चिदानंदरुपः शिवोहम् शिवोहम् ॥३॥

न पुण्यं न पापं न सौख्यं न दु:खं न मन्त्रो न तीर्थो न वेदा न यज्ञ ।
अहं भोजनं नैव भोज्यं न भोक्ता चिदानंदरुपः शिवोहम् शिवोहम् ॥४॥

न मे मृत्युशंका न मे जातिभेदः पिता नैव मे नैव माता न जन्मः ।
न बन्धुर्न मित्रं गुरुर्नैव शिष्य: चिदानंदरुपः शिवोहम् शिवोहम् ॥५॥

अहं निर्विकल्पो निराकार रुपो विभुत्वाच सर्वत्र सर्वेद्रियाणाम् ।
न चासङगत नैव मुक्तिर्न मेयः चिदानंदरुपः शिवोहम् शिवोहम् ॥६॥


-- आद्य शंकराचार्य

11/23/07

संस्कृत रचना

अन्यथा शरणं नास्ति त्वमेव शरणं मम।
तस्मात् कारुण्य भावेन् रक्ष रक्ष परमेश्वर।
रक्ष रक्ष परमेश्वर॥

मंत्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर ।
यत् पुजितं मया देव परिपूर्णं तद्स्तुमे
आवाहनं न जानामि न जानामि तवार्चनम्
पूजाञ्चैव न जानामि क्षम्यतां परमेश्वर
क्षम्यतां परमेश्वर॥

कालेवर्षतुपर्जन्य पृथ्वी सश्यशालिनी
देशोयं शोभधरितो ब्राह्मणा संतु निर्भया।
अपुत्रा पुत्रीणःसन्तु पुत्रिणःसन्तु पौत्रिणा
अधना सधना सन्तु जीवन्तु शरदःशतम्॥

सर्वेजना सुदृढो भवन्तु तथास्तु
सर्वेजना सुदृढो भवन्तु तथास्तु
सर्वेजना सुदृढो भवन्तु तथास्तु ॥

ॐ शांति शांति शांति: ॥

टीप -: या रचनेचे रचनाकार कोण आहेत हे मला माहिती नाही.